संस्कृत-शब्दकोशः

वीरण वीरतरासन

वीरतर

वाचस्पत्यम्

वीरतर ||‍ न० वि + ईर—अच् ततः वीर + वा तरप् । १ वीरणे अमरः । २ शूरतरे च ।


शब्दकल्पद्रुमः

वीरतरं || क्ली वीरणम् । इत्यमरः ॥


शब्दकल्पद्रुमः

वीरतरः || पुं, शरः । इति भूरिप्रयोगः ॥ (त्रि, सामर्थ्यवान् । यथा, ऋग्वेदे । ८ । २४ । १५ । “नह्यङ्ग पुराचन जज्ञे वीरतरस्त्वत् ॥” “वीरतरः सामर्थ्यवान् ।” इति तद्भाष्ये सायणः ॥ अयमनयोरतिशयेन वीरः । वीर- श्रेष्ठः । यथा, महाभारते । ४ । ५२ । १४ । “नरर्षभास्ते तु नरर्षभेण वीरा रणे वीरतरेण भग्नाः ॥”)



Correction: