शब्दकल्पद्रुमः
वीरतरासनं || क्ली (वीरतराणां साधकश्रेष्ठानां आसनम् ।)
आसनविशेषः । यथा, —
“मृदु कोमलमास्तीर्णं संग्रामपतितं हि यत् । जन्तुव्यापादितं वापि मृतं वा नरमासनम् ॥ गर्भच्युतं त्वचं वापि नारीणां योनिजां त्वचम् । सर्व्वसिद्धिप्रदं देवि सर्व्वतोऽतिसमृद्धिदम् । त्वचं वा यौवनस्थानां कुर्य्याद्बीरतरासनम् ॥” इति मुण्डमालातन्त्रे ३ पटलः ॥