संस्कृत-शब्दकोशः

वीरतरु वीरपत्रा

वीरपत्नी

वाचस्पत्यम्

वीरपत्नी ||‍ स्त्री वीरः पतिर्यस्याः वा नुक् ङीप् च । वीर- भार्य्यायाम् अमरः । पक्षे वीरपति तत्रार्थे ।


शब्दकल्पद्रुमः

वीरपत्नी || स्त्री (वीराणां पत्नी । यद्बा, वीरः पतिर्य्यस्याः । “नित्यं सपत्न्यादिषु ।” ४ । १ । ३५ । इति पत्युर्नकारादेशः । “ऋन्नेभ्यो ङीप् ।” ४ । १ । ५ । इति ङीप् ।)
वीरभार्य्या । इत्यमरः ॥ (यथा, मार्कण्डेये । १२५ । ७ । “तेषामेतद्वचः श्रुत्वा वीरा वीरप्रजावती । वीरगोत्रसमुद्भूता वीरपत्नी प्रहर्षिता ॥” नदीविशेषः । यथा, ऋग्वेदे । १ । १०४ । ४ । “अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥” “वीरपत्नी वीरस्य पालयित्री एतत्संज्ञिता- स्तिस्रो नद्यः ।” इति तद्भाष्ये सायणः ॥)



Correction: