वाचस्पत्यम्
वीरपान(ण) || न० वीराणां पानं वा णत्वम् । युद्धाय युद्धखेदापनुत्तये वा सुरापानादौ अमरः!
शब्दकल्पद्रुमः
वीरपानं || क्ली वीराणां श्रमनाशाय पानम् । यथा, —
“वीरपानन्तु यत् पानं वृत्ते भाविनि वा रणे ।” इत्यमरः ॥ (“वा भावकरणयोः ।” ८ । ४ । १० । इति विकल्पेण णत्वमपि । यथा, गो० रामायणे । ४ । ९ । ७२ । “मत्तोऽयमिति दुर्ब्बुद्धे मोहान्मामवमन्यसे । मदीये संप्रहारेऽस्मिन् वीरपाणं समर्थ्यताम् ॥”)