वाचस्पत्यम्
वीरबाहु || पु० विष्णौ विष्णुस० ।
शब्दकल्पद्रुमः
वीरबाहुः || पुं, (वीराः समर्थाः बाहवो यस्य ।)
विष्णुः । यथा, “वीरबाहुर्विदारणः ।” इति तस्य सहस्रनामस्तोत्रम् ॥ (धृतराष्ट्रपुत्त्रान्य- तमः । यथा, महाभारते । १ । ६७ । १०३ । “उग्रो भीमरथो वीरो वीरबाहुरलोलुपः ॥” रावणपुत्त्रः । इति रामायणम् ॥ वानरविशेषः । यथा, गो० रामायणे । ६ । १७ । १५ । “वीरबाहुः सुबाहुश्च नलश्च वनगोचरः ॥”)