संस्कृत-शब्दकोशः

वीरबाहु वीरभद्रक

वीरभद्र

वाचस्पत्यम्

वीरभद्र ||‍ पु० वीरो भद्रोऽस्य । १ अश्वमेधीयेऽश्वे २ वीरेषु भद्रे ३ वीरणे मेदि० । ४ शिवगणभेदे तदुत्पत्तिकथा काशीख० ८९ अ० । “महावीरोऽपि रे भद्र! मम सर्वगणेष्विह । वीरभद्राख्यया हि त्वं प्रथितिं परमां व्रज । कुरु मे सत्वरं कर्म दक्षयज्ञक्षयं नय” । स्वार्थे क । वीरभ- दूक वीरणे जटा० ।


शब्दकल्पद्रुमः

वीरभद्रः || पुं, (वीराणां भद्रं येन ।)
अश्वमेधाश्वः । वीरश्रेष्ठः । वीरणम् । इति मेदिनी ॥ शिव- गणविशेषः । तस्योत्पत्तिर्यथा, —
“इत्याकर्ण्य महाकालः सम्यक् ज्ञात्वा सती- व्ययम् । सत्यं मुने सती देवी तृणीचक्रे स्वजीवितम् ॥ जोषं स्थिते मुनौ तत्र तन्महाकालसाध्वसात् । रुद्रश्चातीवरौद्रोऽभूत् बहुकोपाग्निदीपितः ॥ ततस्तत्क्रोधजाद्बह्नेराविरासीन्महाद्युतिः । प्रत्यक्षः प्रतिमाकारः कालमृत्युः प्रकम्पनः ॥ उवाच च प्रणम्येशं भूमुण्डीं महतीं दधत् । आज्ञां देहि पितः किन्ते करवै दास्यमुत्तमम् । ब्रह्माण्डमेककबलं करवाणि त्वदाज्ञया ॥ इति प्रतिज्ञां तस्येशः श्रुत्वा कृतममन्यत । कृतकृत्यमिवात्यन्तं तं मुदा प्रत्युवाच ह ॥ महावीरोऽसि रे भद्र मम सर्व्वगणेष्विह । वीरभद्राख्यया हि त्वं प्रथितिं परमां व्रज । कुरु मे सत्वरं कार्य्यं दक्षयज्ञं क्षयं नय ॥” इति काशीखण्डे ८९ अध्यायः ॥ (यथा च महाभारते । १२ । २८३ । ५१ । “वीरभद्र इति ख्यातो रुद्रकोपाद्विनिःसृतः । भद्रकालीति विख्याता देव्याः कोपाद्विनिः- सृता ॥”)



Correction: