वाचस्पत्यम्
वीररेणु || पु० वीरयति वीरो रेणुर्धूलिमर्दनं यस्य । भीमसेने त्रिका० ।
शब्दकल्पद्रुमः
वीररेणुः || पुं, (वीरा रेणव इव यस्य ।) भीमसेनः । इति त्रिकाण्डशेषः ॥