संस्कृत-शब्दकोशः

वीरवृक्ष वीरसेन

वीरसू

वाचस्पत्यम्

वीरसू ||‍ स्त्री वीरं सूते सू + क्विप् । वीरमातरि अमरः ।


शब्दकल्पद्रुमः

वीरसूः || स्त्री (वीरान् पुत्त्रानेव सूते इति । वीर + सू + क्विप् ।)
वीरमाता । इत्यमरः ॥ (यथा, महाभारते । १ । २०० । ७ । “जीवसूर्व्वीरसूर्भद्रे बहुसौख्यसमन्विता । सुभगा भोगसम्पन्ना यज्ञपत्नी पतिव्रता ॥” पुत्त्रप्रसविनी । यथा, ऋग्वेदे । १० । ८५ । ४४ । “वीरसूर्द्देवकामा स्योना शन्नो भवद्द्विपदे शं चतुष्पदे ॥” “वीरसूः पुत्त्राणामेव सवित्री ।” इति तद्भाष्ये सायणः ॥)



Correction: