वाचस्पत्यम्
वीरा || स्त्री वि + ईर—अच्, वीर—अच् वा वीर + अस्त्यर्थे अच् वा । १ मुरानामगन्धद्रव्ये २ क्षीरकोकोल्याम् ३ आमलक्याम् । ४ एलवालुकायां ५ पतिपुत्रवत्यां स्त्रियां ६ रम्भायां ७ वि- दार्य्याम् ८ दुग्धिकायाम् ९ क्षीरविदार्य्यां १० मलप्वां मेदि० । ११ काकोल्यां १२ महाशतावर्य्यां १३ घृतकुमार्य्याम् १४ ब्रा- ह्म्याम् १५ अतिविषायां १६ मदिरायाञ्च राजनि० । १७ शिंशपावृक्षे (शिशु) रत्नमा० ।
शब्दकल्पद्रुमः
वीरा || स्त्री मुरा । क्षीरकाकोली । तामलकी । एलवालुका । पतिपुत्त्रवती । रम्भा । विदारी । दुग्धिका । मलपूः । क्षीरविदारी । इति मेदिनी । रे, ६८ ॥ पुस्तकान्तरे मुरास्थाने सुरा विदारीस्थाने गम्भारी इति पाठः । काकोली महाशतावरी । गृहकन्या । ब्राह्मी । अति- विषा । मदिरा । इति राजनिर्घण्टः ॥ शिंशपा- वृक्षः । इति रत्नमाला ॥ (करन्धमराजपत्नी । यथा, मार्कण्डेये । १२३ । १ । “वीर्य्यचन्द्रसुता सुभ्रूर्व्वीरा नाम शुभव्रता । स्वयंवरे सा जगृहे महाराजं करन्धमम् ॥” नदीविशेषः । यथा, महाभारते । ६ । ९ । २२ । “पूर्व्वाभिरामां वीराञ्च भीमा मोघवतीं तथा ॥” विक्रमशालिनी । यथा, मार्कण्डेये । १२५ । ७ । “तेषामेतद्बचः श्रुत्वा वीरा वीरप्रजावती । वीरगोत्रसमुद्भूता वीरपत्नी प्रहर्षिता ॥”)