शब्दकल्पद्रुमः
वीरेशः || पुं, (वीराणामीशः ।) शिवः । यथा, — “अथ त्रयोदशे मासि स्नात्वा त्रिपथगाम्भसि । प्रत्यूष एव वीरेशं यावदायाति स द्बिजः ॥” इति वीरेश्वरस्तोत्रम् ॥