वाचस्पत्यम्
वीर्य्य || न० वीर—यत्, वीरस्य भावो यत् वा । १ देहस्थे चरमधातौ शुक्रे २ पराक्रमे ३ बले ४ प्रभावे अ- मरः । ५ तेजसि मेदि० ६ दीप्तौ ७ द्रव्यनिष्ठे रसवि- पाकादि शक्तिरूपे प्रभावभेदे सुश्रुतः “वीर्य्यं प्रधा- नमिति कस्मात्तद्वशेनौषधकमनिष्पत्तेः । इहौषध- कर्माण्यूर्द्ध्वाधोभागोभयभागसंशोधनसंशमनसंग्राहकाग्नि- दीपनप्रपीडनलेखनवृंहणरसायनवाजीकरणश्वयथुकरण- विलयनदहनदारणमादनप्राणघ्नविषप्रशमनानि वीर्य्य- प्राधान्याद्भवन्ति । तच्च वीर्य्यं द्विविधमुष्णं शीतं चाग्निषोमीयत्वाज्जगतः । केचिदष्टविधमाहुरुष्णं शीतं स्निग्धं रूक्षं विशदं पिच्छिलं मृदु तीष्णं चेत्येतानि वी र्य्याणि स्वबलगुणोत् कर्षाद्रसमामभूयात्मकर्म कुर्वन्ति यथा तावन्महत् पञ्चमूलं कषायं तिक्तानुरसं वातं शमयेदुष्ण वीर्य्यत्वात् तथा कुलत्थः कषायकटुकत्वात्, पलाण्डुः स्नेह भावाच्च मधुरश्चेक्षुरसो वातं वर्द्धयति शीतवीर्य्यत्वात् । कटुच्चा पिष्पली पित्तं शमयति मृदुशीतवीर्य्यत्वादम्लमाम- मलकं लवणं सैन्धवञ्च । तिक्ता काकमाची पित्तं वर्द्धय- त्युष्णवीर्य्यत्वान्मधुरा मत्स्याश्च । कटुकं मूलकं श्लेष्माणं वर्द्धयति स्निग्धवीर्य्यत्वात् । अम्लं कपित्थं श्लेष्माणं शमयति रूक्षवीर्य्यत्वान्मधुरं क्षौद्रञ्च । तदेतन्निदर्शनमा- त्रमुक्तम् । भवन्ति चात्र ये रसावातशमना भवन्ति यदि तेषु वै । रौक्ष्यलाघवशैत्यानि न ते हन्युः समीर- णम् । ये रसाः पित्तशममा भवन्ति यदि तेषु वै । तै- क्ष्योष्ण्यलघुताश्चैव न ते तत्कर्मकारिणः । ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै । स्नेहगौरवशैत्यानि बलासं वर्द्धयन्ति ते” । “तस्माद्वीर्य्यं प्रधानमिति” । द्रव्यगतवीर्य्यं रसाद्यनुगुणशक्तिविशेषरूपम् तच्च चि- न्त्याचिन्त्यक्रियाहेतुत्वेन द्विविधम् । तत्र चिन्त्यक्रिया- हेतुः प्रभावापरचर्य्यायो द्रव्याणां रसाद्यनुरूपकार्य्य- करणशक्तिः यथोक्तं “भूतप्रभावातिशयो द्रव्ये पाके रसे स्थितः । चिन्त्याचिन्त्यक्रियाहेतुर्वीर्य्यं धन्वन्तरेर्मतम्” अक्रद० । भावप्र० वीर्य्यप्रभावयोर्भेद उक्तो यथा “द्रव्ये रसो गुणो वीर्य्यं विपाकः शक्तिरेव च । प- दार्थाः पञ्च निष्ठन्ति स्वं स्वं कुर्वन्ति कर्म च” इति सामान्यतः द्रव्यगतान् पञ्च पदार्थानुक्त्वा रसगुणानुक्त्रा च “उष्णशीतगुणोत्कर्षात् बुधैर्वीर्य्यं द्विधा स्मृतम् । यत् सर्वमग्निषोमीयं दृश्यते भुवनत्रयम्” वाग्भट्टोक्तलक्त्वा च “विपाकञ्च दर्शयित्वा प्रभावो लक्षितो यथा “रसादि- साम्ये यत्कर्म विशिष्टं तत्प्रभावजम् । दन्ती रसाद्यैस्तु- ल्यापि चित्रकस्य विरेचनी । मधूकस्य च मृद्वीका घृतं क्षीरस्य दीपनम् । प्रभावस्तु यथा धात्री लकुचस्य रसादिभिः । समापि कुरुते दोषत्रितयस्य विनाशनम् । कचित्तु केवलं द्रव्यं कर्म कुर्य्यात् प्रभावतः । ज्वरं हन्ति शिरोबद्धा सहदेवीजटा यथा” । तथा नानौषधियोगे फलं प्रति स्वभाव एवाश्रयणीयो न तु तत्र रसादिहे- तुविचारः कर्त्तव्यः यत आह सुश्रुतः “अमी सामान्य- चिन्त्यानि प्रसिद्धानि स्वभावदः । आगमेनोपयोज्यानि भेषजानि विचक्षणैः । प्रत्कीतक्षणफलाः प्रसिद्धाश्च स्व- भावतः । नौषधीहेतुर्भिषजा परीक्ष्येत कदाचन । विरुद्धगुणसंयोगे भूयसाल्पं हि जायते । रसं विपाकस्तौ वीर्य्यं प्रभावस्तान् व्यापीहति” इत्यन्तेन रसगुणवीर्य्य विवाञ्चकवीर्य्यप्रभावस्वरूपाण्युक्तानि । अतस्तयोर्भेदो युक्तः ।
शब्दकल्पद्रुमः
वीर्य्यं || क्ली (वीरे साधु । तत्र साधुः इति यत् । यद्बा, वीर्य्यतेऽनेनेति वीर विक्रान्तौ + “अचो यत् ।” ३ । १ । ९७ । इति यत् । यद्वा वीरस्य भावः । यत् ।)
चरमधातुः । तत्पर्य्यायः । शुक्रन् ३ तेजः ३ रेतः ४ बीजम् ५ इन्द्रियम् ६ । इति मनुष्य- वर्गे अमरः ॥ वीर्य्यं शक्तिः सा च पृथिव्यादीनां यः सारभागः तदतिशयरूपा । सा द्विविधा चिन्त्याचिन्त्यक्रियाहेतुत्वेन । तत्र चिन्त्यक्रिया- हेतुर्या द्रव्यरसादीनां स्वस्वकर्म्मणि स्वभाव- सिद्धा शक्तिः । अचिन्त्यक्रियाहेतुश्च प्रभापर- पर्य्यायः । द्रव्याणां रसाद्यननुरूपकार्य्यकरण- शक्तिः । उक्तञ्च । “भूतप्रभावातिशयो द्रव्ये पाके रसे स्थितः । चिन्त्याचिन्त्यक्रियाहेतुर्वीर्य्यं धन्वन्तरेर्म्मतम् ॥” इति चक्रदत्तोपरि शिवदासीयटीका ॥ * ॥
परवीर्य्योदरपातदोषो यथा, —
“परवीर्य्यं यदुदरं कामतोऽकामतोऽपि वा । अहल्ये याति दैवेन तदुपायं निशामय ॥ अकामतो न दुष्टा सा प्रायश्चित्तेन शुद्ध्यति । कामभोगेन त्याज्या सा कर्म्मभोगेन शुद्ध्यति ॥ पितृपाके दैवपाके पूजायां नाधिकारिणी । षष्टिं वर्षसहस्राणि क्षयं कृत्वा स्वकर्म्मणः । प्रयाति भोगदेहं सा तस्यान्ते पापकर्म्मणः ॥” इति ब्रह्मवैवत्तै श्रीकृष्णजन्मखण्डे ४७ अध्यायः ॥ अतिशयशक्तिभागुत्साहः । इति स्वर्गवर्गे अमरः ॥ कर्म्मसु सुकरः प्रत्ययः उत्साहः । इति मधुः । कर्म्मसु दृढयत्नकारको भाघ उत्साहः । इति रमानाथः । कर्म्मसु प्रत्यय उत्साह इति नयनानन्दः । अशक्ये बलोद्यम उत्साह इति केचित् । स उत्साहः अतिशय- शक्तिभाक् वीर्य्यम् । अतिशयितोऽध्यवसायो वीर्य्यं साधु वीर्य्यमित्यर्थः । वीर्य्या स्त्री च वीर्य्यं वीर्य्य इति कोषान्तरम् । इति भरतः ॥ * ॥
बलम् । प्रभावः । इति नानार्थे अमरः ॥ (यथा, ऋग्वेदे । ३ । २५ । २ । “अग्निः सनोति वीर्य्याणि विद्वान् सनोति वाजममृताय भूषन् ॥” “वीर्य्याणि पशुपुत्त्रादिसम्पद्रूपाणि सामर्थ्यानि ।” इति तद्भाष्ये सायणः ॥ यथा च भागवते । ६ । १७ । ३१ । “ज्ञानवैराग्यवीर्य्याणां नहि कश्चिद्ब्यपाश्रयः ॥” शरीरसामर्थ्यम् । यथा, ऋग्वेदे । ४ । ५० । ७ । “स इद्राजा प्रतिजन्यानि विश्वाशुष्मेण तस्था- वभि वीर्य्येण ॥” “वीर्य्येण शरीरसामर्थ्येन ।” इति तद्भाष्य सायणः ॥ शक्तिः । यथा, मनौ । ११ । ३१ । “न ब्रह्मणो वेदयते किञ्चिद्राजनि धर्म्मवित् । स्ववीर्य्येणैव तान् शिष्यान्मानवानपकारिणः ॥ स्ववीर्य्याद्राजवीर्य्याच्च स्ववीर्य्यं बलवत्तरम् । तस्मात् स्वेनैव वीर्य्येण निगृह्णीयादरीन् द्बिजः ॥” मनःशक्तिः । यथा, भागवते । ४ । १८ । १५ । “कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् । हिरण्मयेन पात्रेण वीर्य्यमोजो बलं पयः ॥”)
औषधानां वीर्य्यस्य स्थितिकाला यथा, —
“यामं कल्ककषायवीर्य्यमखिलं चूर्णञ्च पक्षत्रयं षण्मासान् घृतमोदकौ सहगुडौ मासत्रयं गुग्गुलोः । सिद्धानां रसभस्मनां सुविपुलं वीर्य्यञ्च वर्षत्रयं किञ्चिद्गन्धविवर्ज्जितं गुणपरं तैलं पुराणं महत् ॥” इति नारायणदासकृतपरिभाषा ॥ तेजः । इति मेदिनी ॥ चेतः । दीप्तिः । इति शब्दरत्नावली ॥