वाचस्पत्यम्
वृक || आदाने भ्वा० आत्म० सक० सेट् । वर्कते अवर्किष्ट ।
वाचस्पत्यम्
वृक || पु० वृक—क । १ कुक्कुराकारे हरिणघातके व्याघ्रभेदे । (घोघ) २ काके उणादि० । ३ वकवृक्षे शब्दच० । ४ शृगाले हारा० । ५ क्षत्रिये पुंस्त्री० ६ अनेकद्रवजन्ये धूपे ७ सरस- द्रवे रत्नमा० उदरस्थे ८ वह्निभेदे वृकोदरः । ९ अम्बष्ठायां स्त्री वा गौरा० ङीष् । सर्वत्र जातौ स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
वृक || ङ आदाने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
ङ, वर्कते । वरीवृक्यते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वृकः || पुं, (वृणोतीति । वृ + “सृवृभृशुषिमुषिभ्यः कक् ।” उणा० ३ । ४१ । इति कक् ।)
कुक्कुर- प्रमाणहरिणघ्नजन्तुशिशेषः । घॐघ इति ख्यातः । हुण्डार इति हिन्दी भाषा । तत्पर्य्यायः । कोकः २ ईहामृगः ३ । इत्यमरः ॥ वत्सादनः ४ विरुक् ५ गोवत्सादी ६ छागभोजी ७ छाग- लान्त्री ८ जनाशनः ९ । इति राजनिर्घण्टः ॥ (यथा, भागवते । ३ । १० । २३ । “श्वा शृगालो वृको व्याघ्रो मार्ज्जारः शश- शल्लकौ ॥”)
काकः । इत्युणादिकोषः ॥ (पोतकः । इत्युणादि- टीकाधृतविश्वः । ३ । ४१ ॥)
वकवृक्षः । इति शब्दरत्नावली ॥ शृगालः । इति हारावली ॥ (यथा, मनुः । ८ । २३५ । “अजाविके तु संरुद्धे वृकैः पाले त्वनायति । यां प्रसह्य वृको हन्यात् पाले तत् किल्विषं भवेत् ॥” “वृकैः शृगालप्रभृतिभिः ।” इति मेघातिथिः ॥)
क्षत्त्रियः । अनेकधूपः । सरलद्रवः । इति भरतधृतरभसः ॥ (तस्करः । इति निघण्टुः । ३ । २४ ॥ * ॥
वर्कते शत्रुप्राणानादत्ते इति । वृक आदाने + कः । वज्रः । इति निघण्टुः । २ । २० ॥)