वाचस्पत्यम्
वृ || आवरणे चु० उभ० सक० सेट् । वारयति ते अवीवरत् त ।
वाचस्पत्यम्
वृ || वरणे भ्वा० उभ० सक० सेट् । वरति ते अवारीत् अवरि(री)ष्ट
वाचस्पत्यम्
वृ || वरणे स्वादि० क्र्या० च उभ० सक० सेट् । वृणोति वृणुत वृणाति वृणीते अवारीत् अवरिष्ट अवरीष्ट अवृत ।
वाचस्पत्यम्
वृ || सेवायां क्र्या० आ० सक० सेट् । वृणीते “वृणते हि विमृष्य- कारिणम्” किरा० । अवरीष्ट अवरिष्ट अवृत ।
शब्दकल्पद्रुमः
वृ || क च वृतौ । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
क, वारयति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वृ || ङ ग संभक्तौ । इति कविकल्पद्रुमः ॥ (क्र्या०- आत्म०-सक०-सेट् ।)
संभक्तिः सेवनम् । ङ ग, वृणीते । वृणते हि विमृष्यकारिणं गुण- लुब्धाः स्वयमेव सम्पदः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वृ || ञ वृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०- सक०-सेट् ।)
ञ, वररि वरते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वृ || न ग ञ वृतौ । इति कविकल्पद्रुमः ॥ (स्वा०- क्र्या० च-उभ०-सक०-सेट् ।)
न ञ, वृणोति वृणुते । ग ञ, वृणाति वृणीते । वकारस्य दन्त्य- त्वात् संवृणोति इत्यादौ नानुस्वारस्य मकारः । ओष्ठ्यत्वाच्च युवूर्षतीत्यादौ ऋदिरणावित्यूर् । न च दन्त्यस्य कथमोष्ठ्यकार्य्यमिति वाच्यं यतः स्वभावादोष्ठ्यस्य वकारस्य ओष्ठ्यकार्य्यं स्वाभा- विकमेव । क्वचिद्दन्त्यमध्ये पाठः नह्येकवर्णस्यो- भयस्थानं सम्भवति । इति दुर्गादासः ॥