वाचस्पत्यम्
वृकोदर || पु० वृकनामाग्निरुदरे यस्य । “यस्य तोक्ष्णो वृको नाम जठरे हव्यवाहनः । मया दत्तः स धर्मात्मा तेन चासौ वृकोदरः” मत्स्यपु० ६५ अ० उक्ते भीमे “नृपमूचे वचनं वृकोदरः” किरा० ।
शब्दकल्पद्रुमः
वृकोदरः || पुं, (वृकस्येवोदरो यस्य । यद्वा, वृकः वृकनामकोऽग्निरुदरे यस्य ।)
भीमसेनः । तत्प- र्य्यायः । भीमः २ मरुत्पुत्त्रः ३ किर्म्मीरनिसू- दनः ४ कीचकनिसूदनः ५ वकनिसूदनः ६ हिडम्बनिसूदनः ७ । इति हेमचन्द्रः ॥ वक- वैरी ८ मारुतिः ९ । इति जटाधरः ॥ अस्य व्युत्पत्तिर्यथा, —
“कथासु भीमसेनेन परिपृष्टः प्रतापवान् । त्वया पृष्टस्य धर्म्मस्य रहस्यस्यास्य भेदकृत् ॥ भविता स तदा ब्रह्मन् कर्त्ता चैव वृकोदरः । प्रवर्त्तकोऽस्य धर्म्मस्य पाण्डुसूनुर्महाबलः ॥ यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः । मया दत्तः स धर्म्मात्मा तेन चासौ वृकोदरः ॥” इति मात्स्ये ६५ अध्यायः ॥