संस्कृत-शब्दकोशः

वृक्ण वृक्षक

वृक्ष

वाचस्पत्यम्

वृक्ष ||‍ पु० व्रश्च—क्स । व्रश्चनेऽपि जायमाने द्रुमे । ह्रस्वार्थे कन् । वृक्षक ह्रस्ववृक्षे ।


वाचस्पत्यम्

वृक्ष ||‍ वरणे भ्वा० आत्म० सक० सेट् । वृक्षने अवृक्षिष्ट ।


शब्दकल्पद्रुमः

वृक्ष || ङ वृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
सप्तमस्वरी । ङ, वृक्षते वरं कन्या । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वृक्षः || पुं, (व्रश्च छेदने + “स्नुव्रश्चिकृत्यृषिभ्यः कित् ।” उणा० ३ । ६६ । इति सः । स च कित् । “वृक्ष वरणे । अतोऽच्यावृणोतीति वृक्ष इति सिद्धे प्रपञ्चार्थं व्रश्चिग्रहणम् ।” इति तट्टीकाया- मुज्ज्वलदत्तः ।)
स्थावरयोनिविशेषः । गाछ इति भाषा । तत्पर्य्यायः । महीरुहः २ शाखी ३ विटपी ४ पादपः ५ तरुः ६ अनोकहः ७ कुटः ८ सालः ९ पलाशी १० द्रुः ११ द्रुमः १२ आगमः १३ । इत्यमरः ॥ अगच्छः १४ विष्टरः १५ मही- रुट् १६ कुचिः १७ स्थिरः १८ कारस्करः १९ नगः २० अगः २१ कुटारः २२ । इति शब्द- रत्नावली ॥ विटपः २३ कुजः २४ वनस्पतिः २५ अद्रिः २६ शिखरी २७ कुठः २८ । इति जटा- धरः ॥ कुञ्जः २९ क्षितिरुहः ३० अङ्घ्रिपः ३१ भूरुहः ३२ भूजः ३३ महीजः ३४ धरणीरुह ३५ क्षितिजः ३६ शालः ३७ । इति राज- निर्घण्टः ॥ तस्य षड्जातिर्यथा, —
“कुरण्ट्याद्या अग्रबीजा मूलजास्तूत्पलादयः पर्व्वयोनय इक्ष्वाद्याः स्कन्धजाः सल्लकीमुखाः । शाल्यादयो बीजरुहाः संमूर्च्छजास्तृणादयः । स्युर्व्वनस्पतिकायस्य षडेते मूलजातयः ॥” इति हेमचन्द्रः ॥ “संस्वेदजापि विज्ञेया वृक्षगोपशुजन्तवः ।” इत्यग्निपुराणम् ॥ भद्रप्रदवृक्षा यथा, — श्रीभगवानुवाच । “आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः । शिविरस्य यदीशाने पूर्व्वे पुत्त्रप्रदस्तरुः ॥ सर्व्वत्र मङ्गलार्हश्च तरुराजो मनोहरः । रसालवृक्षः पूर्ब्बस्मिन् नृणां सम्पत्प्रदस्तथा ॥ शुभप्रदश्च सर्व्वत्र सुरकारो निशामय ॥ विल्वश्च पनसश्चैव जम्बीरो वदरी तथा । प्रजाप्रदश्च पूर्ब्बस्मिन् दक्षिणे धनदस्तथा ॥ सम्पत्प्रदश्च सर्व्वत्र यतो हि वर्द्धते गृही । जम्बूवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा ॥ बन्धुप्रदश्च पूर्ब्बस्मिन् दक्षिणे मित्रदस्तथा । सर्व्वत्र शुभदश्चैव धनपुत्त्रशुभप्रदः ॥ हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा । ईशाने सुखदश्चैव सर्व्वत्रैवं निशामय ॥ सर्व्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा । अलावूश्चापि कुष्माण्डो मायाम्बुश्च सुकासुकः ॥ खर्ज्जूरी कर्कटी चापि शिविरे मङ्गलप्रदा । वास्तूकः कारविल्वश्च वार्त्ताकुश्च शुभप्रदा । लताफलञ्च शुभदं सर्व्वं सर्व्वत्र निश्चितम् ॥” निषिद्धवृक्षा यथा, —
“प्रशस्तं कथितं कारो ! निषिद्धञ्च निशामय । वन्यवृक्षो निषिद्धश्च शिविरे नगरेऽपि च ॥ वटो निषिद्धः शिविरे नित्यं चौरभयं ततः । नगरेषु प्रसिद्धश्च दर्शनात् पुण्यदस्तथा ॥ हे कारो ! तिन्तिडीवृक्षो यत्नात्तं परिवर्ज्जयेत् । शरेण धनहानिः स्यात् प्रजाहानिर्भवेद्ध्रुवम् ॥ शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव च । न निषिद्धः प्रसिद्धश्च नगरेषु तथा पुरे ॥ वाट्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्ज्जयेत् । खर्ज्जूरश्च डहुश्चैव निषिद्धः शिविरे तथा ॥ न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च । वृक्षश्च चणकादीनां धान्यञ्च मङ्गलप्रदम् ॥ ग्रामेषु नगरे चापि शिविरे च तथैव च । इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा ॥ अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः । कच्वी हरिद्रा शुभदा शुभदश्चार्द्रकस्तथा ॥ हरीतको च शुभदा ग्रामेषु नगरेषु च । न वाट्यां भद्रदा नित्यं तथा चामलकी ध्रुवम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अः ॥ अपि च । “अपुत्त्रस्य च पुत्त्रत्वं पादपा इह कुर्व्वते । यत्नेनापि च राजेन्द्र ! अश्वत्थारोपणं कुरु ॥ स ते पुत्त्रसहस्राणां कार्य्यमेकः करिष्यति । धनी चाश्वत्थवृक्षेण अशोकः शोकनाशनः ॥ प्लक्षो यज्ञप्रदः प्रोक्तो निम्बश्चासुप्रदः स्मृतः । जम्बुकी नाकदा प्रोक्ता भार्य्यादा दाडिमी तथा ॥ डुम्बरो रोगनाशाय पलाशो ब्रह्मदस्तथा । अर्कपुष्पारोपकाणां नित्यं तुष्येद्दिवाकरः ॥ श्रीवृक्षः शङ्करो देवः पाटलायान्तु पार्व्वती । शिंशपायामप्सरसः कुन्दे गन्धर्व्वसत्तमाः ॥ विभीतके दासवृद्धिर्व्वकुलो दास्यदस्तथा । अपत्यनाशकस्तालो वकुलः कुलवर्द्धनः ॥ बहुभार्य्या नारिकेली द्राक्षः सर्व्वाङ्गसुन्दरः । रतिप्रदा तथा केली केतकी सर्व्वनाशिनी । प्रतिष्ठां ते गमिष्यन्ति ये नराः प्लक्षरोपकाः ॥” इति पाद्मे सृष्टिखण्डे वृक्षारोपणं नाम २६ अध्यायः ॥ * ॥
अस्य रोपणफलम् । यम उवाच । “वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः । षडेते वृक्षजातीयास्तासां रोपे फलं शृणु ॥ यः पुमान् रोपयेद्वृक्षान् छायापुष्पफलोपगान् । सर्व्वसत्त्वोपभोगाय स याति परमां गतिम् ॥ छायापुष्पोपगांस्त्रिंशत् फलपुष्पद्रुमांस्तथा । रोपयित्वा दशाम्रांस्तु नरो न नरकं व्रजेत् ॥ देवदानवगन्धर्व्वाः किन्नरोरगगुह्यकाः । पशुपक्षिमनुष्याश्च संश्रयन्ति मुदा द्रुमान् ॥ पुष्पैः सुरगणाः सर्व्वे फलैश्च पितरः सदा । छायया मे मनुष्यास्तु पशुपक्षिमृगास्तथा ॥ पुष्पोपगन्धांश्च फलोपगन्धान् यः पादपान्रोपयते मनुष्यः । समृद्धदेशे वरवेश्मवेद्यां लभेदधिष्ठानवरं स विप्रः ॥ तस्मात् सुबहवो वृक्षा रोप्याः श्रेयोऽभि- वाञ्छता । पुत्त्रवत् परिपाल्याश्च ते पुत्त्रा धर्म्मतः स्मृताः ॥ किं धर्म्मविमुखैर्म्मर्त्यैः केवलं स्वार्थहेतुभिः । तरुपुत्त्रा वरं ये तु परार्थैकानुवृत्तयः ॥ पत्रपुष्पफलच्छायामूलवल्कलदारुभिः । परेषामुपकुर्व्वन्ति तारयन्ति पितामहान् ॥ छेत्तारमपि संप्राप्तं छायापुष्पफलादिभिः । पूजयन्त्येव तरवो मुनिवद्द्वेषवर्जिताः ॥ पितरं नोपहिंसन्ति द्रुमा द्रविणलोभतः । तारयन्ति च मे सम्यक् सर्व्वस्यातिथ्यदायकाः ॥ तस्मात्ते पुत्त्रवत् स्थाप्या विधिवद्द्विजपुङ्गव । द्विजैः पितृमनुष्याणामभोज्याः स्युर्यदा सदा ॥ जलकृत् वृक्षरोपी यः प्रतिग्राहारुचिर्द्विजः । एते स्वर्गान्न हीयन्ते ये चान्ये सत्यवादिनः ॥” इत्याद्ये वह्निपुराणे तडागवृक्षप्रशंसानामा- ध्यायः ॥ * ॥
अपि च । “भूमिदानेन ये लोका गोदानेन च कीर्त्तिताः । ते लोकाः प्राप्यते पुंभिः पादपानां प्ररोहणे ॥ अश्वत्थमेकं पिचुमर्द्दमेकं न्यग्रोधमेकं दश पुष्पजातीः । द्वे द्वे तथा दाडिममातुलुङ्गे पञ्चाम्ररोपी नरकं न याति ॥ यथा सुपुत्त्रः कुलमुद्धरेद्धि यथातिकृत्स्नान्नियमप्रयत्नात् । तथात्र वृक्षाः फलपुष्पभूताः स्वं स्वामिनं नरकादुद्धरन्ति ॥ गोकर्ण उवाच । इन्धनार्थं यथा नीतमग्निहोत्रं तदुच्यते ॥ छायाविश्रामपथिकैः पक्षिणां निलयेन च । पत्रमूलत्वगादींश्च औषधार्थन्तु देहिनाम् ॥ उपकुर्व्वन्ति वृक्षस्य पञ्चयज्ञः स उच्यते । गृहकृत्यानि कष्टानि क्षुद्रजन्तुगृहास्तथा ॥ सत्रनिर्व्वर्त्तनं प्रोक्तं भिक्षा पत्रैः समाकृता । फलन्ति वत्सरे मध्ये द्विवारं शाकुनादयः ॥ सांवत्सरं पितुर्मातुरुपकारं फलैः कृतम् । एवं पुत्त्र समारोप्या एवं तत्त्वविदो विदुः ॥” इत्यादि वाराहपुराणे गोकर्णमाहात्म्यनामा- ध्यायः ॥ * ॥
अच्छेद्यवृक्षा यथा, —
“अश्वत्थो वटवृक्षश्च न च्छेत्तव्यः कदाचन । न च्छेत्तव्यो विल्ववृक्ष उडुम्बरश्च कदाचन । कर्म्मण्याश्चैव ये वृक्षा न च्छेत्तव्याः कदाचन ॥” इति च वाराहपुराणे ब्राह्मणदीक्षासूत्रं नामा- ध्यायः ॥ * ॥
वृक्षोत्पाता यथा, —
“पुरेषु येषु दृश्यन्ते पादपाश्चैव रोदिताः । रुदन्तो वा हसन्तो वा स्रवन्तो वा बहून्रसान् ॥ अरोगा वा विना वातं शाखा मुञ्चन्त्यथ द्रुमाः । फलं पुष्पं तथा काले दर्शयन्ति द्विहायनाः ॥ पूर्व्वावस्थां दर्शयन्ति फलं पुष्पं तथा भवेत् । क्षीरं स्नेहं मदं रक्तं मधु तोयं स्रवन्ति च ॥ शुष्यन्त्यरोगाः सहसा शुष्का रोहन्ति वा पुनः । उत्तिष्ठन्तीह पतिताः पतन्ति च तथोन्नताः ॥ एवं वक्ष्यामि ते ब्रह्मन् विपाकफलमेव च । रोदने व्याधिमभ्येति हसने देशविभ्रमम् ॥ शाखाप्रपतने कुर्य्यात् संग्रामे योधपातनम् । बालानां मरणं कुर्य्याद्बालानां फलपुष्पिता ॥ स्वराष्ट्रभेदं कुरुते फलपुष्पमनन्तरम् । क्षयं सर्व्वत्र गोक्षीरे स्नेहे दुर्भिक्षलक्षणम् ॥ वाहनापचयं मद्यं रक्तं संग्राममादिशेत् । मधुस्रावे भवेद्ब्याधिर्जलस्रावे न वर्षति ॥ अरोगं शोषणं ज्ञेयं ब्रह्मन् दुर्भिक्षलक्षणम् । शुष्केषु संप्ररोहस्तु वीर्य्यमन्त्रञ्च हीयते ॥ उत्थाने पतितानाञ्च भयभेदकरं भवेत् । स्थानात् स्थानन्तु गमने देशभङ्गन्तथादिशेत् ॥ ज्वलत्स्वपि च वृक्षेषु रोदत्सु च धनक्षयम् । एतत् पूजितवृक्षेषु सर्व्वं राज्ञो विपद्यते ॥ पुष्पे फले वा विकृते राज्ञो मृत्युं तथादिशेत् । अन्येषु दैवयुक्तेषु वृक्षोत्पातेषु मन्त्रितः ॥ आच्छादयित्वा तं वृक्षं गन्धमाल्यैर्विभूषयेत् । वृक्षोपरि तथा च्छत्रं कुर्य्यात् पापप्रशान्तये ॥ शिवमभ्यर्च्चयेद्देवं पशुञ्चास्मै निवेदयेत् । शूलेभ्य इति यद्धोमा कृत्वा रुद्रं जपेत्तथा ॥ मध्वाज्ययुक्तेन तु पायसेन संपूज्य विप्रांश्चतुरश्च दद्यात् । गीतेन नृत्येन तथार्च्चनेन देवं हरं पापविनाशहेतोः ॥” इति मात्स्ये अद्भुतशान्तिवृक्षोत्पातप्रशमनं नाम २०६ अध्यायः ॥ * ॥
अथ वृक्षप्रतिष्ठा । भीष्म उवाच । “पादपानां विधिं ब्रह्मन् यथावद्विस्तराद्वद । विधिना येन कर्त्तव्यं पादपोद्यापनं बुधैः । ये च लोकाः स्मृतास्तेषां तानि चैव वदस्व मे ॥ पुलस्त्य उवाच । पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु । तडागविधिवत् सर्व्वं समाप्तिं जगदीश्वर ॥ कृत्वा मण्डपसंभारं स्नात्वा प्रयतमानसः । पूजयेद्ब्राह्मणं तद्वद्धेमवस्त्रानुलेपनैः ॥ सर्व्वौषध्युदकैः सिक्तान्नानापुष्पविभूषितान् । वृक्षान्माल्यैरलंकृत्य वासोभिरभिवेष्टयेत् ॥ सूच्या चैव तथा कार्य्यं सर्व्वेषां कर्णवेधनम् । कुण्डलञ्चापि दातव्यं तद्वद्धेमशलाकया ॥ फलानि सप्त चाष्टौ वा कलधौतानि कारयेत् । प्रत्येकं सर्व्ववृक्षाणां वेद्यां तानधिवासयेत् ॥ धूपन्तु गुग्गुलुं श्रेष्ठं ताम्रपात्रैरधिष्ठितम् । सर्व्वान् धान्यभृतः कृत्वा गन्धमाल्यानुलेपनैः ॥ कुम्भान् स सर्व्ववृक्षेषु स्थापयित्वा व्रती स्वयम् । पूजयित्वा दिनान्ते च कुर्य्याद्द्विजनिमन्त्रणम् ॥ यथा च लोकपालानामिन्द्रादीनां विधानतः । वनस्पतेरधिवासमेवं कार्य्यं द्विजातिभिः ॥ ततः शुक्लाम्बरधरः सौवर्णकृतशेखराम् । स्वर्णशृङ्गां कांस्यदोहां गां दद्याच्छुभशालि- नीम् ॥ पयस्विनीं वृक्षमध्यादुत्सृजेद्गामुदङ्मुखीम् । ततोऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः ॥ ऋग्यजुःसामाथर्व्वाणां धारणैरभितस्तथा । तैश्च कुम्भैः संस्नपनं कुर्य्याद्ब्राह्मणपुङ्गवः ॥ शुक्लाम्बरधरः शुद्धो यजमानः स्वयं जपेत् । गोभिर्व्विभवतः सार्व्वानृत्विजस्तु समाहितः ॥ हेमसूत्रैः सकटकैरङ्गुलीयैः पवित्रकैः । वासोभिः शयनीयैश्च सहोपस्करपादुकैः ॥ क्षीरामिषैर्व्वलिं दद्याद्यावद्दिनचतुष्टयम् । होमश्च सर्पिषा कार्य्यो यवैः कृष्णतिलैरपि ॥ पलाशसमिधः शस्ताश्चतुर्थेऽह्नि तथोत्सवः । दक्षिणा च पुनस्तद्बत् श्रेष्ठा तत्रापि शक्तितः ॥ यद्यदिष्टतमं किञ्चित्तत्तद्दद्यादमत्सरः । आचार्य्ये द्विगुणं दत्त्वा प्रणिपत्य समापयेत् ॥ अनेन विधिना यस्तु कुर्य्यादवृक्षोत्सवं मुदा । सर्व्वान् कामानवाप्नोति तत् तदानन्त्यमश्नुते ॥ यश्चैकमपि राजेन्द्र वृक्षं संस्थापयेद्बुधः । सोऽपि स्वर्गे वसेद्राजन् यावदिन्द्रशतत्रयम् ॥ भूतभव्यांश्च मनुजांस्तारयेद्रोमसंमितान् । परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ॥ य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः । सोऽपि संपूज्यते देवैर्ब्रह्मलोके महीयते ॥” इति पाद्मे सृष्टिखण्डे २६ अध्यायः ॥ * ॥
वृक्षच्छेदने दोषो यथा, —
“तस्मान्न च्छेदयेत् वृक्षान् सुपुष्पफलितान् कदा । यदीच्छेत् कुलवृद्धिञ्च धनवृद्धिञ्च शाश्वतीम् ॥ सन्निधौ देवतानाञ्च शिलेष्टकचितानपि । छेदिताश्छेदयेल्लोकान् मरकवृष्टिक्षुद्भयैः ॥ नृपहानिर्भवेच्छ्रीघ्रं चिञ्चावृक्षे निपातिते । सन्नियोगी हयं याति सीमावृक्षे निपातिते । तस्मान्न च्छेदयेद्वृक्षं देवताधिष्ठितं क्वचित् ॥ वापीकूपतडागानां छेदने रोधने कृते । कुलान्यकुलतां यान्ति नराणां सुदुरात्मनाम् ॥ तद्रूंश्च छेदयेद्यस्तु वृक्षान् छायासुशीतलान् । असिपत्रवने घोरे पीड्यते यमकिङ्करैः ॥ नगरोपवने वृक्षान् प्रमादाद्धि च्छिनत्ति यः । स गच्छेन्नरकं नाम जृम्भणं रौद्रदर्शनम् ॥ विल्वादिपालनं कुर्य्याच्छुभं भयदमन्यथा । श्रीवृक्षान्रोपयेत् पञ्च यदि स्वर्गान्न हीयते ॥” इत्याद्ये वह्निपुराणे वारुणारामप्रतिष्ठाध्यायः ॥ अथ वृक्षारोपणनक्षत्रादि । शतभिषा मूलं विशाखा मृगशिरः उत्तरफल्गुनी उत्तराषाढा उत्तरभाद्रपत् रोहिणी हस्ता पुष्यः रेवती च ॥ * ॥
राजमार्त्तण्डे । “प्राजेशश्रवणोत्तरादितिमघामार्त्तण्डतिष्या- श्विनी- पौष्णानुष्णमरीचयः शतभिषा स्वातिर्विशाखा तथा । जिवार्केन्दुसितेन्दुनन्दनदिने वारे स्थिरस्योदये शस्यानां वपने भवन्ति लवने शस्ते तिथौ रोपणे ॥ * ॥
हेमाम्भसा वृक्षवीजं स्नातो मन्त्रेण रोप- येत् । वसुधेति सुशीतेति पुण्यदेति धरेति च । नमस्ते सुभगे नित्यं द्रुमोऽयं वर्द्धतामिति ॥” * ॥
अथ वृक्षप्रतिष्ठानक्षत्राणि । पूष्यः अश्विनी ज्येष्ठा पूर्ब्बफल्गुनी धनिष्ठा मृगशिरः स्वाती आर्द्रा मघा रोहिणी मूलं हस्ता रेवती अनुराधा श्रवणा पुनर्व्वसुश्च । यथा हि । “पुष्याश्विशक्रभगदैवतवासवेषु चन्द्रानिलेशमघरोहिणिमूलहस्ते । पौष्णानुराधहरिभेषु पुनर्व्वसौ च कार्य्याभिषेकतरुभूतपतिप्रतिष्ठा ॥” * ॥
अथ विहिततिथ्यादिः । भविष्ये । “प्रतिपच्च द्वितीया च तृतीया पञ्चमी तथा । दशमी त्रयोदशी चैव पौर्णमासी च कीर्त्तिता ॥ सोमो बृहस्पतिश्चैव शुक्रश्चैव तथा बुधः । एते सौम्यग्रहाः प्रोक्ताः प्रतिष्ठायागकर्म्मणि ॥” इति ज्योतिस्तत्त्वम् ॥



Correction: