वाचस्पत्यम्
वृक्षच्छाय || न० ६ त० । बहूनां वृक्षाणां छायायाम् ।
शब्दकल्पद्रुमः
वृक्षच्छायं || क्ली बहूनां वृक्षाणां छाया । यथा । वृक्षस्य वृक्षयोर्वा छाया वृक्षच्छाया वृक्ष- च्छायम् । बहुत्वे तु वृक्षच्छायमिति । षष्ठ्या- श्छाया बहूनाञ्चेदिति क्लीवत्वम् । इति स्त्री नपुंसकलिङ्गसंग्रहे भरतः ॥