वाचस्पत्यम्
वृक्षादन || पु० वृक्षमत्ति भिनत्ति अद—ल्यु । १ कुठारास्त्रे (नेहालि) अमरः । वृक्षान्तरमत्ति भिनत्ति । २ अश्वत्थवृक्षे ३ मधुच्छत्रे ४ कुठारे च गेदि० । ५ पियाले धरणिः । ६ वृक्ष- विदारके त्रि० ७ वन्दायां स्त्री गौरा० ङीष् ।
शब्दकल्पद्रुमः
वृक्षादनः || पुं, (वृक्षमत्ति नाशयतीति । अद् + ल्युः ।)
वृक्षभेदी । इत्यमरः ॥ नेहानि इति भाषा । (यथा, महाभारते । ५ । १५४ । ८ । “सकीलक्रकचाः सर्व्वेवासी वृक्षादनान्विताः ॥”)
अश्वत्थवृक्षः । मधुच्छत्रम् । कुठारः । इति मेदिनी ॥ पियालः । इति धरणिः ॥