संस्कृत-शब्दकोशः

वृच वृजन

वृज

वाचस्पत्यम्

वृज ||‍ त्यागे अदा० आत्म० सक० सेट् ईदित् । वृङ्क्ते अवृञ्जिष्ट नेदिदप्ययम् । वृक्ते अवर्जिष्ट ईदित् निष्ठा अनिट् वृक्तः ।


वाचस्पत्यम्

वृज ||‍ त्यागे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । वर्जयति ते वर्जति । अववर्जत्—अवीवृजत् । अवर्जीत् ईदित् । वर्जितः भ्वा० निष्ठा अनिट् । वृक्तः ।


वाचस्पत्यम्

वृज ||‍ वृतौ, त्यागे च रु० पर० सक० सेट् । वृणक्ति । अवर्जीत् । ईदित् निष्ठा अनिट् । वृक्तः ।


शब्दकल्पद्रुमः

वृज || ई कि त्यागे । इति कविकल्पद्रुमः ॥ (चुरा०- भ्वा० च-पर०-सक०-सेट् । अनिड्निष्ठः ।)
ई, वृक्तः । कि, वर्ज्जयति वर्ज्जति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वृज || ई ध वृतौ । त्यागे । इति कविकल्पद्रुमः ॥ (रुधा० पर०-सक०-सेट् । अनिड्निष्ठः ।)
ई, वृक्तः । ध, वृणक्ति । वरीवृज्यते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वृज || ल ङ इ त्यागे । इति कविकल्पद्रुमः ॥ (अदा०-आत्म०-सक०-सेट् ।)
सप्तमस्वरी । ल, ङ, वृङ्क्ते । इ, वृञ्ज्यते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वृज || ल ङ ई त्यागे । इति कविकल्पद्रुमः ॥ (अदा०-आत्म०-सक०-सेट् । अनिड्निष्ठः ।)
सप्तमस्वरी । ल, ङ, वृक्ते । ई, वृक्तः । इति दुर्गादासः ॥



Correction: