वाचस्पत्यम्
वृजन || न० वृज्यतेऽत्र वृज—क्यु । १ पापे उणादि० २ आकाशे सि० कौ० । ३ केशे पु० ४ कुटिले त्रि० उणादि० ।
शब्दकल्पद्रुमः
वृजनं || क्ली (वृज + “कॄपॄवृजीति ।” उणा० २ । ८१ । इति क्युः ।)
पापम् । इत्युणादिकोषः ॥ आका- शम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ निराकरणम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ (संग्रामः । यथा, ऋग्वेदे । १ । ६३ । ३ । “त्वं शुष्णं वृजने पृक्षे ॥” “वृजन इत्यादीनि त्रीणि संग्रामनामानि अत्र पूर्व्वे विशेषणे वृजने वर्ज्जनयुक्ते संग्रामे हि वीराः पुरुषा वर्ज्ज्यन्ते हिंस्यन्ते ।” इति तद्भाष्ये सासणः ॥ बलम् । इति निघण्टुः । २ । ९ ॥ यथा, ऋग्वेदे । १ । १६६ । १५ । “विद्यामेषं वृजनं जीरदानुम् ।” “वृजनं बलम् ।” इति तद्भाष्ये सायणः ॥ प्राणिजातम् । यथा, ऋग्वेदे । १ । ४८ । ५ । “जरयन्ती वृजनं पद्वदीयते ।” “वृजनं गमनशीलं जङ्गमं प्राणिजातं जर- यन्ती *** वृजनं वृजी वर्जने । वर्ज्यते इति वृजनं प्राणिजातम् । कॄ पॄ वृजिमन्दिनिधा- ञ्भ्यः क्युरिति क्युप्रत्ययः । कित्त्वाल्लघपधगुणा- भावः योरनादेशे प्रत्ययस्वरः ।” इति तद्भाष्ये सायणः ॥)
शब्दकल्पद्रुमः
वृजनः || पुं, (वृज + क्युः ।)
केशः । कुटिले, त्रि । इत्युणादिकोषः ॥ (वाधके च त्रि । यथा, ऋग्वेदे । ६ । ३५ । ५ । “तमानूनं वृजनमन्यथा चिच्छूरो ।” “वृजनं बाधकम् ।” इति तद्भाष्ये सायणः ॥)