संस्कृत-शब्दकोशः

वृजि वृण

वृजिन

वाचस्पत्यम्

वृजिन ||‍ न० वृज—इलच् किच्च । १ पापे अमरः । २ भुग्ने त्रि० हेमच० । ३ केशे पु० ४ कुटले त्रि० मेदि० ।


शब्दकल्पद्रुमः

वृजिनं || क्ली (वृजी वर्ज्जने + “वृजेः किच्च ।” उणा० २ । ४७ । इति इनच् । स च कित् ।)
पापम् । इत्यमरः ॥ (यथा, भागवते । १० । २९ । ३८ । “तन्नः प्रसीद वृजिनार्द्दन तेऽङ्घ्रिमूलम् ॥” दुःखम् । यथा, तत्रैव । १ । ७ । ४६ । “वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥” पापविशिष्टे, त्रि । यथा, महाभारते । २ । २२ । ४ । “वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च ॥”)
रक्तचर्म्म । भुग्नम् । इति हेमचन्द्रः ॥


शब्दकल्पद्रुमः

वृजिनः || पुं, केशः । कुटिले, त्रि । इति मेदिनी । ने, १३६ ॥ (यथा, ऋग्वेदे । ६ । ४६ । १३ । “असमने अध्वनि वृजिने पथि श्येनाँ इव श्रव- स्यतः ॥” “वृजिने कुटिले पथि ।” इति तद्भाष्ये सायणः ॥)



Correction: