शब्दकल्पद्रुमः
वृत्ताध्ययनर्द्धिः || स्त्री (वृत्ताध्ययनयोरृद्धिः ।)
ब्रह्मवर्च्चसम् । इत्यमरः ॥ वेदबोधितस्याचारस्य परिपालनं वृत्तम् । व्रतग्रहणपूर्ब्बकं गुरुमुखेन वेदाभ्यासः अध्ययनम् । तयोरृद्धिस्तत्परि- पालनकृततेजस उपचयो ब्रह्मवर्च्चसं स्यात् । ब्रह्महस्तिराजेति अः । इति भरतः ॥