वाचस्पत्यम्
वृत्तान्त || पु० वृत्तो जातोऽन्तोनिर्णयो यस्मात् । १ संवादे २ वाचिकसंदेशे च अमरः । २ प्रक्रियायां ३ कात्स्न्ये ४ प्र- स्तावे च मेदि० । ५ अवसरे ६ भावे ७ एकान्ते च विश्व० ।
शब्दकल्पद्रुमः
वृत्तान्तः || पुं, संवादः । तत्पर्य्यायः । वार्त्ता २ प्रवृत्तिः ३ उदन्तः ४ । इत्यमरः ॥ श्रुतिः ५ । इति जटाधरः ॥ उदन्तकः ६ । इति शब्द- रत्नावली ॥ (यथा, कथासरित्सागरे । २ । २९ । “सर्व्वमाजन्म वृत्तान्तं विस्तरादिदमब्रवीत् ॥”)
प्रक्रिया । कार्त्स्म्यम् । वार्त्ताप्रभेदः । प्रस्तावः । इति मेदिनी ॥ (यथा, मनौ । ३ । १४ । “न ब्राह्मणक्षत्त्रिययोरापद्यपि हि तिष्ठतोः । कस्तिंश्चिदपि वृत्तान्ते शूद्रा भार्य्योपदिश्यते ॥” “वृत्तान्ते इतिहासाख्याने ॥” इति कुल्लूक- मेधातिथी ॥)
अवसरः । भावः । एकान्त- वाचकः । इति विश्वः ॥