संस्कृत-शब्दकोशः

वृत्य वृत्रद्विष्

वृत्र

वाचस्पत्यम्

वृत्र ||‍ पु० वृत—रक् । १ अन्धकारे २ रिपौ त्वष्टृपुत्रे ३ दानवभेदे ४ मेघे ५ पर्वतभेदे मेदि० । ६ इन्द्रे विश्वः । ७ शब्दे वि० कौ०


शब्दकल्पद्रुमः

वृ(त्त्र)त्रः || पुं, (वृत् + “स्फायितञ्चिवञ्चीति ।” उणा० २ । १३ । इति रक् ।)
अन्धकारः । शत्रुः । (यथा, ऋग्वेदे । ७ । ४८ । २ । “इन्द्रेण युजा तरषेम वृत्रम् ।” “वृत्रं शत्रुम् ।” इति तद्भाष्ये सायणः ॥)
दानवविशेषः । स तु त्वष्टृपुत्त्र इन्द्रेण हतः । इत्यमरः ॥ (यथा, हरिवंशे । १२७ । १७ । “तथा वृत्रवधे प्राप्ते साहाय्यार्थं वृतो मया ॥” अस्य विशेषविवरणन्तु देवीभागवते षष्ठस्कन्धे १ अध्यायमारभ्य द्रष्टव्यम् ॥ * ॥
)
मेघः । (यथा, ऋग्वेदे । ३ । ३३ । ६ । “इन्द्रो अस्मा अरदद्वज्रबाहु- रपाहन् वृत्रं परिधिं नदीनाम् ॥” “वृत्रं वृणोति आकाशमिति वृत्रो मेघस्तं मेघ- मपाहन् जघान ।” इति तद्भाष्ये सायणः ॥)
पर्व्वतविशेषः । इति मेदिनी ॥ इन्द्रः । इति विश्वः ॥ शब्दः । इति सिद्धान्तकौमुद्यामुणादि- वृत्तिः ॥



Correction: