वाचस्पत्यम्
वृद्धकाक || पु० कर्म० । द्रोणकाके हेमच० ।
शब्दकल्पद्रुमः
वृद्धकाकः || पुं, (वृद्धः काकः ।) काकविशेषः । दाँडकाक इति भाषा । तत्पर्य्यायः । द्रोणकाकः २ दग्धकाकः ३ कृष्णकाकः ४ पर्व्वतकाकः ५ वनाश्रयः ६ काकोलः ७ । इति हेमचन्द्रः ॥