वाचस्पत्यम्
वृद्धगङ्गा || स्त्री कर्म० । नदीभेदे “अस्ति नाटकशैले तु सरो- मानससन्निभम् । यत्र सार्द्धं शैलपुत्र्या जलक्रीडां सदा हरः । कुरुते नरशार्दूल! स्वर्णपङ्कजशीभिते । तस्य पश्चान्मध्यपूर्वभागेभ्यश्च सरित्त्रयम् । अवतीर्णं प्रयात्येप दक्षिणं सागरं प्रति । तस्य पश्चिमभागे तु नदो दिक्करिकाह्वया । दिग्गजाः क्षेत्रसंजाताः तेन दिक्करिका स्मृता । मध्यभागात् सृता या तु शङ्करेणावतारिता । वृद्धगङ्गाह्वया सा तु गङ्गोव फलदायिनी । या निःसृता पूर्वभागात् तस्माद्गिरिचरात् नदी । स्वर्णग्रीवेति विख्याता सा गङ्गासदृशी फले” कालिकापु० ८२ अ० ।
शब्दकल्पद्रुमः
वृद्धगङ्गा || स्त्री (वृद्धा गङ्गा ।)
नदीविशेषः ॥ वुडीगङ्गा इति ख्याता । यथा, —
“अस्ति नाटकशैले तु सरो मानससन्निभम् । यत्र सार्द्धं शैलपुत्त्र्या जलक्रीडां सदा हरः ॥ कुरुते नरशार्द्दूल स्वर्णपङ्कजशोभिते । तस्य पश्चान्मध्यपूर्ब्बभागेभ्यश्च सरित्त्रयम् ॥ अवतीर्णं प्रयात्येव दक्षिणं सागरं प्रति । तस्य पश्चिमभागे तु नदी दिक्करिकाह्वया ॥ दिग्गजाः क्षेत्रसंजाताः तेन दिक्करिका स्मृता । मध्यभागात् सृता या तु शङ्करेणावतारिता ॥ वृद्धगङ्गाह्वया सा तु गङ्गेव फलदायिनी ॥ या निःसृता पूर्ब्बभागात्तस्माद्गिरिवरान्नदी । स्वर्णग्रीवेति विख्याता सा गङ्गासदृशी फले ॥” इति कालिकापुराणे कामरूपपीठनिर्णयनाम ८२ अध्यायः ॥