वाचस्पत्यम्
वृद्धदारु || न० वृद्धं दारयति दृ—णिच्—उण् । वृद्धदारकवृक्षे रा- जनि० “वृद्धदारुद्वयं गौल्यं पिच्छिलं कफधातनुत् । वल्यं कासाममेदोघ्नं द्वितीयं स्वल्पवीर्य्यदम्” राजनि०
शब्दकल्पद्रुमः
वृद्धदारु || क्ली (वृद्धत्वनाशकं दारु यस्य ।)
वृद्ध- दारकवृक्षः । यथा, राजनिर्घण्टे । “वृद्धदारुद्वयं गौल्यं पिच्छिलं कफवातनुत् । वल्यं कासामदोषघ्नं द्वितीयं स्वल्पवीर्य्यदम् ॥”