वाचस्पत्यम्
वृधसान || पुंस्त्री० वृष—आन असुक् च । मनुष्ये सि० कौ० । स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
वृधसानः || पुं, (वृध + “ऋन्जिवृधीति ।” उणा० २ । ८७ । इत्यनेन असानच् । स च कित् ।)
मनुष्यः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (वर्द्धनशीले, त्रि । यथा, ऋग्वेदे । २ । २ । ५ । “हरिशिप्रो वृधसानासु जर्भुरत् ॥” “वृधसानासु प्रवर्द्धमानासु ।” इति तद्भाष्ये सायणः ॥ यथा च तत्रैव । ४ । ३ । ६ । “कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभं यो ॥” “वृधसानः घृताद्याहुतिभिर्वर्द्धमानस्त्वम् ।” इति तद्भाष्ये सायणः ॥)