वाचस्पत्यम्
वृन्दिष्ठ || त्रि० अतिशयेन वृन्दारको मुख्यः इष्ठन् वृन्दादेशः । अतिशयमुख्ये “वृन्दिष्ठमार्च्चीत् वसुधाधिपानाम्” इति भट्टिः । ईयसुन् वृन्दीयानप्यत्र त्रि० स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
वृन्दिष्ठः || त्रि (अयमेषामतिशयेन वृन्दारकः श्रेष्ठः । वृन्दारक + इष्ठन् । “प्रियस्थिरेति ।” ६ । ४ । १५७ । वृन्दादेशः ।)
अयमनयोरेषां वा अतिशयेन वृन्दारको देवो मुख्यो वा । इति मुग्धबोधटीकायां दुर्गादासः ॥