संस्कृत-शब्दकोशः

वृन्दावनेश्वर वृन्दिष्ठ

वृन्दावनेश्वरी

शब्दकल्पद्रुमः

वृन्दावनेश्वरी || स्त्री (वृन्दावनस्येश्वरी ।)
राधा । यथा, —
“राघवत्वेऽभवत् सीता रुक्मिणी कृष्णजन्मनि । साक्षाल्लक्ष्मीस्तु विज्ञेया प्राकट्येनैव पार्व्वति ! ॥ वृषभानुसुता या तु नित्यानन्दस्वरूपिणी । गान्धर्व्विकान्तलीलायां श्रीः श्यामा कृष्णवल्लभा । वृन्दावनेश्वरी राधा साक्षात् कृष्णात्मिका परा ॥” इति पाद्मोत्तरखण्डे ६७ अध्यायः ॥



Correction: