संस्कृत-शब्दकोशः

वृन्दीयस् वृशा

वृश

वाचस्पत्यम्

वृश ||‍ पु० वृश—क । १ वासकवृक्षे भरतः । २ उन्दूरे पुंस्त्री० शब्दच० स्त्रियां ङीष् । ३ ओषधिभेदे स्त्री उणादि० ।


वाचस्पत्यम्

वृश ||‍ वृतौ दिवा० पर० सक० सेट् । वृश्यति अवृशत् अवर्शीत् पुषादिरवमित्येके तेन अवृशदित्येव ।


शब्दकल्पद्रुमः

वृश || इर् य वृत्याम् । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-सक०-सेट् ।)
इर्, अवृशत् अव- र्शीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । य, वृश्यति वरं कन्या । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वृशः || पुं, (वृ + “जनिदाच्युसृवृमदीति ।” उणा० ४ । १०४ । इति शक् ।)
उन्दुरुः । इति शब्दरत्नावली ॥ वासकः । इत्यमरटीकायां भरतः ॥



Correction: