वाचस्पत्यम्
वृश || पु० वृश—क । १ वासकवृक्षे भरतः । २ उन्दूरे पुंस्त्री० शब्दच० स्त्रियां ङीष् । ३ ओषधिभेदे स्त्री उणादि० ।
वाचस्पत्यम्
वृश || वृतौ दिवा० पर० सक० सेट् । वृश्यति अवृशत् अवर्शीत् पुषादिरवमित्येके तेन अवृशदित्येव ।
शब्दकल्पद्रुमः
वृश || इर् य वृत्याम् । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-सक०-सेट् ।)
इर्, अवृशत् अव- र्शीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । य, वृश्यति वरं कन्या । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वृशः || पुं, (वृ + “जनिदाच्युसृवृमदीति ।” उणा० ४ । १०४ । इति शक् ।)
उन्दुरुः । इति शब्दरत्नावली ॥ वासकः । इत्यमरटीकायां भरतः ॥