संस्कृत-शब्दकोशः

वृश्चिकर्णी वृश्चिकाली

वृश्चिका

वाचस्पत्यम्

वृश्चिका ||‍ स्त्री वृश्चिकः तद्विषमस्त्यस्या अच् । (विछाती) क्षुपभेदे राजनि० ।


शब्दकल्पद्रुमः

वृश्चिका || स्त्री क्षुद्रक्षुपविशेषः । तत्पर्य्यायः । नख- पर्णी २ पिच्छिला ३ अलिपत्रिका ४ । अस्या गुणाः । पिच्छिलत्वम् । अम्लत्वम् । अन्तर्वृद्ध्या- दिदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥



Correction: