संस्कृत-शब्दकोशः

वृषण्वत् वृषदंशक

वृषण्वसु

वाचस्पत्यम्

वृषण्वसु ||‍ त्रि० वृषा वसु यस्य न नलोपः णत्वम् । इन्द्रस्योपकरणे रथादौ जटा० ।


शब्दकल्पद्रुमः

वृषण्वसु || क्ली इन्द्रस्य धनम् । इति जटाधरः ॥ (त्रि, वर्षणकर्त्ता । यथा, ऋग्वेदे । २ । ४१ । ८ । “न यत्परो नान्तर आदधर्षद्वृषण्वसू ॥” “वृषण्वसू हे धनस्य वर्षितारौ ।” इति तद्भाष्ये सायणः ॥)



Correction: