वृषण्वसु
वृषध्वज
वृषदंशक
वाचस्पत्यम्
वृषदंशक || पुंस्त्री० वृषान् मूषिकान् दशति दन्श—ण्वुल् । विडाले अमरः स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
वृषदंशकः || पुं, (वृषं मूषिकं दशतीति । दंश + ण्वुल् ।)
विडालः । इत्यमरः ॥ (यथा, साहित्य- दर्पणे १० परिच्छेदे । “क्षिपसि शुकं वृषदंशकवदने ॥”)