वाचस्पत्यम्
वृषध्वज || पु० वृषो वृषभो मूषिको धर्मोवा ध्वजो यस्य । १ शिवे अमरः वृषकेतनादयोऽप्यत्र । २ हेरम्बे ३ पुण्यकर्मयुते च विश्वः ।
शब्दकल्पद्रुमः
वृषध्वजः || पुं, (वृषो ध्वजो वाहनं यस्य ।)
शिवः । इत्यमरः ॥ (यथा, काव्यादर्शे २ स्वभावा- ख्याने । “जटाभिःस्निग्धताम्राभिराविरासीद्वृषध्वजः ॥”)
हेरम्बः । पुण्यकर्म्मा । इति विश्वः ॥