वाचस्पत्यम्
वृषनाशन || पु० वृषान् मूषिकान् नाशयति नश—णिच् ल्यु । १ विडङ्गे शब्दमा० । २ अरिष्टरूपवृषनाशके श्रीकृष्णे हरिव० ७८ अ० ।
शब्दकल्पद्रुमः
वृषनाशनः || पुं, (वृषस्य नाशनं यस्मात् ।) विडङ्गः । इति शब्दमाला ॥