वाचस्पत्यम्
वृषन् || पु० वृष—कनिन् । १ इन्द्रे २ कर्णे ३ दुःखे ४ वेदनाज्ञाने मेदि० । ५ वृषे ६ अश्वे च हेमच० ।
शब्दकल्पद्रुमः
वृषा || [न्] पुं, (वर्षतीति । वृष सेचने + “कनिन् युवृषितक्षीति ।” उणा० १ । १५६ । इति कनिन् ।)
इन्द्रः । (यथा, रघुः । १० । ५२ । “प्राजापत्योपनीतं तत् अन्नं प्रत्यग्रहीन्नृपः । वृषेव पयसां सारमाविष्कृतमुदन्वता ॥”)
कर्णः । वेदनाज्ञानम् । दुःखम् । इति मेदिनी ॥ वृषः । (यथा, ऋग्वेदे । १० । ४३ । ८ । “वृषा न क्रुद्धः पतयत् रजःसु ॥” “रजःसु लोकेषु वृषा न यथा वृषभः क्रुद्धः सन् प्रतिवृषभवधाय पतयत् गच्छति ।” इति तद्- भाष्ये सायणः ॥)
षोटकः । इति हेमचन्द्रः ॥ (यथा, ऋग्वेदे । ७ । ६९ । १ । “आवां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर्यात्वश्वैः ॥” “हे अश्विनौ वां रथो वृषभिः युवभिरश्वैर्युक्तः सन्नायातु ।” इति तद्भाष्ये सायणः ॥ पिता । यथा, ऋग्वेदे । ७ । २० । ५ । “वृषा जजान वृषणं रणाय ॥” “वृषा सेक्ता पिता कश्यपो वृषणं कामानां वर्षितारमिन्द्रम् ।” इति तद्भाष्ये सायणः ॥ त्रि, वर्षकः । यथा, ऋग्वेदे । १० । ६७ । ७ । “ब्रह्मणस्पतिर्वृषभिर्वराहैः ॥” “वृषभिर्वर्षितृभिर्वराहैर्वराहारैः ।” इति तद्- भाष्ये सायणः ॥)