वाचस्पत्यम्
वृषपर्णी || स्त्री वृषस्य मूषिकस्य कर्णैव पर्णमस्याः । (उन्दू- रकाणी) १ आखुकर्ण्याम् रत्नमा० । २ सुदर्शनीवृक्षे राजनि० ।
शब्दकल्पद्रुमः
वृषपर्णी || स्त्री (वृषस्य मूषिकस्य कर्ण इव पर्णं यस्याः । ङीष् ।)
आखुपर्णो । इति रत्नमाला ॥ वृक्षविशेषः । पुराती इति भाषा । तत्पर्य्यायः । दध्याली २ चक्राङ्गी ३ सुदर्शना ४ । इति राजनिर्घण्टः ॥