वाचस्पत्यम्
वृषपर्वन् || पु० वृषे पर्व उत्सवो यस्य । १ शिवे २ दैत्यभेदे च । वृषं बलकरं पर्व यस्य । ३ भृङ्गारवृक्षे ४ केशरौ च विश्वः ।
शब्दकल्पद्रुमः
वृषपर्व्वा || [न्] पुं, शिवः । दैत्यभेदः । (यथा, महाभारते । १ । ६७ । १६ । “वृषपर्व्वेति विख्यातः श्रीमान् यस्तु महा- सुरः ॥” अस्य विवरणन्तु तत्रैव द्रष्टव्यम् ॥ * ॥
)
भृङ्गा- रुवृक्षः । कशेरुः । इति विश्वः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ४१ । “वृषाही वृषभो विष्णुर्वृषपर्व्वा वषोदरः ॥” राजविशेषः । यथा, मार्कण्डेयपुराणे । १३४ । ५ । “जगृहे नरराजस्य सकाशाद्बृषपर्व्वणः ॥”)