वाचस्पत्यम्
वृषभ || पु० वृष—अभच् किच्च । १ वृषे २ श्रेष्ठे ३ वैदर्भीरीतिभेदे मेदि० । ४ जिनभेदे हेमच० । ५ कर्णच्छिद्रे ६ ऋषभनामौषधे च उणादि० ।
शब्दकल्पद्रुमः
वृषभः || पुं, (वृष सेचने । वृष + “ऋषिवृषिभ्यां कित् ।” उणा० ३ । १२३ । इति अभच् । स च कित् ।)
वृषः । (यथा, मनौ । ९ । ५० । “यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् ॥”)
श्रेष्ठः । (यथा, महाभारते । ३ । ३३ । ८७ । “सृञ्जयैः सह कैकेयैर्व्वृष्णीनां वृषभेण च ॥”)
वैदर्भीरीतिभेदः । इति मेदिनी ॥ आदिजिनः । इति हेमचन्द्रः ॥ कर्णरन्ध्रम् । ऋषभनामौष- धम् । इत्युणादिकोषः ॥ * ॥
(चतुर्व्विधपुरु- षान्तर्गतपुरुषविशेषः । यथा, —
“शशके पद्मिनी तुष्टा चित्रिणी रमते मृगम् । वृषभे शङ्खिनी तुष्टा हस्तिनी रमते हयम् ॥” इति रतिमञ्जरी ॥)
गोशब्दे अलिखनात् प्रसङ्गादत्र आतिदेशिक- गोहत्या लिख्यते । “गामाहारं प्रकुर्व्वन्तं पिबन्तं यो निवारयेत् । याति गोविप्रयोर्मध्ये गोहत्याञ्च लभेत्तु सः ॥ दण्डैर्गास्ताडयन्मूढो यो विप्रो वृषवाहनः । दिने दिने गवां हत्यां लभते नात्र संशयः ॥ ददाति गोभ्य उच्छिष्टं भोजयेद्वृषवाहकम् । भोजयेद्वृषवाहान्नं स गोहत्यां लभेद्ध्रुवम् ॥ वृषलीपतिं याजयेद्यो भुङ्क्तेऽन्नं तस्य यो नरः । गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥ पादं ददाति वह्नौ यो गाञ्च पादेन ताडयेत् । गृहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमालभेत् ॥ यो भुङ्क्तेऽस्निग्धपादेन शेते स्निग्धाङ्ध्रिरेव च । सूर्य्योदये च द्बिर्भाजी स गोहत्यां लभेत् ध्रुवम् ॥ अवीरान्नञ्च यो भुङ्क्ते योनिजीवी च ब्राह्मणः । यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद्ध्रुवम् ॥ पितॄंश्च पर्व्वकाले च तिथिकाले च देवताः । न सेवतेऽतिथिं यो हि स गोहत्यां लभेद्ध्रुवम् ॥ स्वभर्त्तरि च कृष्णे वा भेदबुद्धिं करोति या ॥ कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेत् ध्रुवम् । गोमार्गं खननं कृत्वा ददाति शस्यमेव च । तडागे वा तदूर्द्ध्वे वा स गोहत्यां लभेद् ध्रुवम् ॥ प्रायश्चित्तं गोवधस्य यः करोति व्यतिक्रमम् । अर्थलोभादथाज्ञानात् स गोहत्यां लभेत् ध्रुवम् ॥ राजके दैवके यत्नाद्गोस्वामी गां न पालयेत् । दुःखं ददाति यो भूढो गोहत्यां लभते ध्रुवम् ॥ प्राणिनं लङ्घयेद् यो हि देवार्च्चामनलं जलम् । नैवेद्यं पुष्पमन्नञ्च स गोहत्यां लभेद्ध्रुवम् ॥ शश्वन्नास्तीति यो वादी मिथ्यावादी प्रतारकः । देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद्ध्रुवम् ॥ देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति ! । न सम्भ्रमान्नमेद्यो हि स गोहत्यां लभेत् ध्रुवम् ॥ न ददात्याशिषं कोपात् प्रणताय च यो द्विजः । विद्यार्थिने च विद्याञ्च स गोहत्यां लभेत् ध्रुवम् ॥ गोहत्या ब्रह्महत्या च कथिता चातिदेशिकी । यथा श्रुतं सूर्य्यवक्त्रात् किं भूयः श्रोतुमिच्छसि ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥