वाचस्पत्यम्
वृषस्यन्ती || स्त्री वृषेण जम्भनमिच्छति वृष + जाभार्थे क्यच् सूक् च शतृ—ङीप् । कामुक्याम् अमरः “लक्ष्मणं सा वृष- स्यन्ती” भट्टिः ।
शब्दकल्पद्रुमः
वृषस्यन्ती || स्त्री (वृषं नरं शुक्रलं वा इच्छति मैथुनाय । वृष + “सुप आत्मनः क्यच् ।” ३ । १ । ८ । इति क्यच् । “अश्वक्षीरेति ।” ७ । १ । ५१ । इति सुगागमः । ततः । “लटः शतृ- शानचाविति ।” ३ । २ । १२४ । इति शतृ । “उगितश्च ।” ४ । १ । ६ । इति ङीप् ।)
कामुकी । इत्यमरः ॥ वृषेण जब्धुमिच्छन्ती गौः । इति व्याकरणम् ॥ तथा च । “लक्ष्मणं सा वृषस्यन्ती महोक्षं गौरिवागमत् । मन्मथायुधसम्पातव्यथ्यमानमतिः पुनः ॥” इति भट्टिः ॥