वाचस्पत्यम्
वृषाकपायी || स्त्री वृषाकपेः पत्नी ङीष् ऐङ् च । १ लक्ष्म्यां २ गौर्य्याम् अमरः । ३ स्वाहायां ४ शच्यां ५ जीवन्त्यां ६ श- तावर्य्याञ्च मेदि० ।
शब्दकल्पद्रुमः
वृषाकपायी || स्त्री (वृषाकपेः विष्णोः शिवस्य अग्ने- रिन्द्रस्य वा भार्य्या । वृषाकपि + “वृषाकप्यग्नीति ।” ४ । १ । ३७ । इति ङीप् । ऐकारादेशश्च ।)
लक्ष्मीः । गौरी । इत्यमरः ॥ स्वाहा । इति भरतः ॥ शची । इति स्वामी ॥ (यथा, ऋग्वेदे । १० । ८६ । १३ । “वृषाकपायि रेवति सुपुत्त्र आदु सुस्नुषे ॥” “हे वृषाकपायि कामानां वर्षकत्वादभीष्टदेश- गमनाच्चेन्द्रो वृषाकपिस्तस्य पत्नि ।” इति तद्भाष्ये सायणः ॥)
जीवन्ती । शतावरी । इति मेदिनी ॥