संस्कृत-शब्दकोशः

वृषाकपायी वृषाकर

वृषाकपि

वाचस्पत्यम्

वृषाकपि ||‍ पु० वृषं घर्मं न कम्पयति न + कपि—इन् नलोपः । १ महादेवे २ विष्णौ ३ अग्नौ मेदि० ४ इन्द्रे क्षीरस्वामी ।


शब्दकल्पद्रुमः

वृषाकपिः || पुं, (“वृषः कपिरस्येति । अन्येषा- मपीति दीर्घः ।” इति उणा० ४ । १४३ । इत्यस्य वृत्तौ उज्ज्वलदत्तः ।)
विष्णुः । (यथा हरिवंशे । २१६ । ४७ । “ततो विभुः प्रवरवराहरूपधृक् वृषाकपिः प्रसभमथैकदंष्ट्रया ॥”)
शिवः । (यथा, हरिवंशे । ३ । ५२ । “वृषाकपिश्च शम्भुश्च कपर्द्दी रैवतस्तथा ॥”)
अग्निः । इति मेदिनी ॥ इन्द्रः । इति वृषाक- पायीशब्दस्य शचीवाचकत्वदर्शनात् ॥ (यथा, भागवते । ६ । १३ । १० । “एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम् । ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥” सूर्य्यः । यथा, महाभारते । ३ । ३ । ६१ । “त्वं हंसः सविता भानुरंशुमाली वृषाकपिः ॥”)



Correction: