वाचस्पत्यम्
वृषाङ्क || पु० वृषः अङ्कोऽस्य । १ शिवे २ भल्लातके ३ षण्डे च ४ साधौ पुण्यवति च मेदि० ।
शब्दकल्पद्रुमः
वृषाङ्कः || पुं, (वृषोऽङ्कोऽस्य ।)
शिवः । (यथा, भागवते । ८ । ८ । १ । “पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवाः ॥”)
साधुः । भल्लातकः । षण्डः । इति मेदिनी ॥