वाचस्पत्यम्
वृष्टिवैकृत || न० ६ त० । उपद्रवसूचके वृष्टिविकारे यथोक्तं वृ० स० ४६ अ० “दुर्भिक्षमनावृष्ट्यामतिवृष्ट्यां क्षुद्भयं सपरचक्रम् । रोगो ह्यनृतुभवायां नृपवधोऽनभ्रजातायाम् । शीतोष्णविप र्यामे नो सम्यगृतुषु च सम्प्रवृत्तेषु । षणमासाद्राष्ट्रभयं रिगभयं दैवजनित च । अन्यतौ सप्ताहं प्रबन्धवर्षे प्रधाननृपमरणम् । रक्ते शस्त्रोद्योगो मसिस्थिवसा- दिभिर्मरकः । धान्यहिरण्यत्वक्फलकुसुमाद्यैर्वर्षितैर्मयं विद्यात् । अङ्गारपांशुवर्षे विनाशमायाति तन्नगरम् । उपला विना जलधरैर्विकृता वा प्राणिनो यदा वृष्टाः । छिद्रं वाप्यतिवृष्टौ सस्यानामीतिसञ्जननम् । क्षीरघृत- क्षौद्राणां दध्नो रुधिरोष्णयोर्वा वर्षे । देशविनाशो ज्ञेयोऽसृग्वर्षे चापि नृपयुद्धम् । यद्यमलेऽर्के छाया न दृश्यते दृश्यते प्रतीपा वा । देशस्य तदा सुमहद्भयमा- यातं विनिर्देश्यम् । व्यभ्रे नभसीन्द्रधनुर्दिवा यदा दृश्यतेऽथ वा रात्रौ । प्राच्यामपरस्यां वा तदा भवत् क्षुद्भयं सुमहत् । सूर्य्येन्दुपर्जन्यसमीरणानां योगः स्मृतो वृष्टिविकारकाले । धान्यान्नगोकाञ्चनदक्षिणाश्च देयास्ततः शान्तिमुपैति पापम्” ।