संस्कृत-शब्दकोशः

वृष्टिवैकृत वृष्णिगर्भ

वृष्णि

वाचस्पत्यम्

वृष्णि ||‍ पु० वृष—नि किच्च । १ यादवर्वश्ये नृपभेदे शब्दच० । २ श्रीकृष्णे ३ मेथे अमरः । ४ चण्डे ५ पाषण्डे च त्रि० शब्दर० ।


शब्दकल्पद्रुमः

वृष्णिः || त्रि पाषण्डः । चण्डः । इति शब्दरत्ना- वली ॥


शब्दकल्पद्रुमः

वृष्णिः || पुं, (वृष + “सृवृषिभ्यां कित् ।” उणा० ४ ४९ । इति निः । स च कित् ।)
मेषः । इत्यमरः ॥ यादवः । इति शब्दरत्नावली ॥ (यथा, महा- भारते । ५ । ७२ । ४ । “यथा हि सर्व्वस्वापत्सु पासि वृष्णीनरिन्दम । तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात् ॥”)
कृष्णः । इति त्रिकाण्डशेषः ॥



Correction: