वाचस्पत्यम्
वृष्यगन्धिका || स्त्री वृष्यः शुक्रवर्द्धको गन्धो यस्याः कप् अत इत्त्वम् । अतिवलायाम् राजनि० । कवभावे वृष्यगन्धा वृद्धदारके स्त्री शब्दच० ।
शब्दकल्पद्रुमः
वृष्यगन्धिका || स्त्री (वृष्यो गन्धो वस्याः । स्वार्थे कन् । टापि अत इत्वम् ।)
अतिबला । इति राजनिर्घण्टः ॥