संस्कृत-शब्दकोशः

वृष्या वृहक

वृह

वाचस्पत्यम्

वृह is an alternate of बृह. बृ(वृ)ह ||‍ वृद्धौ भ्वादि० पर० अक० सेट् ब(व)र्हति अब(व)- रीत् । इरित् इत्येके तेन अबृ(वृ)हदित्यपि । कवि- कल्पद्रुमे बृहधातुमात्रस्य अन्त्यस्थादित्वमुक्तम्” मेदि० “प्रोक्षितं निहते सिक्ते बृहती वसनान्तरे । छन्दोभित्- क्षुद्रवार्त्ताकीवारिधानीषु वाचि च । काण्टकारिभह- त्योश्च” “ब्रह्मतत्त्वतपोवेदे न द्वयोः पुंसी बेधसि” । ऋत्विग्योगभिदोर्विप्रे बन्धनं बधबन्धयोः” । वृहप्रकृति- वृहती ब्रह्मशब्दयोः ओष्ठ्यादितयोक्तत्वादस्य उभया- दित्वम् ।


वाचस्पत्यम्

वृह ||‍ उद्यमे तु० पर० अक० वेट् । वृहति । अवर्हीत्—अवृक्षत् ।


वाचस्पत्यम्

वृह ||‍ दोप्तौ वा चु० उभ० सक० पक्षे भ्वा० पर० इदित् । वृंह- यति ते अववृंहत् त । वृंहति अवृंहीत् ।


वाचस्पत्यम्

वृह ||‍ ध्वनौ हस्तिध्वनौ वृद्धौ च भ्वा० पर० पर० अक० सेट् । इदित् । वृंहति अवृंहीत्


वाचस्पत्यम्

वृह ||‍ वृद्धौ भ्वा० आत्म० सक० सेट् इदित् । वृंहते अवृंहिष्ट ।


वाचस्पत्यम्

वृह ||‍ वृद्धौ भ्वा० पर० सक० सेट् । वर्हति अवर्हीत् ।


वाचस्पत्यम्

वृह ||‍ वृद्धौ शब्दे च अक० भ्वा० पर० सक० सेट् । वर्हति इरित् अवृहत् अवर्हीत् ।


शब्दकल्पद्रुमः

वृह || इ कि त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०- पक्षे भ्वा०-पर०-अक०-सेट् ।)
सप्तमस्वरी । इ, वृंह्यते । कि, वृंहयति वृंहति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वृह || इ ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
इ, वृंह्यते । ङ, वृंहते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वृह || इ ध्वने । ऋद्धौ । सप्तमस्वरी ॥ (भ्वा०-पर०- अक०-सेट् ।)
इ, वृंह्यते । ववृंहिरे गजपतयः । इति माघः ॥ आत्मनेपदं प्रमादादिति वल्लभः ॥ ध्वनश्चेति हस्तिकर्त्तृकः । वृंहितं करिगर्जित- मित्यमरसिंहात् । वृंहितं करिगर्जायां शब्द- मात्रेऽपि कथ्यते । इति शब्दमहार्णवात् । कदाचिदन्यकर्त्तृकोऽपि । तेन श्रीहर्षचरिते सिंहवृंहितमिति बाणभट्टप्रयोगः । इति दुर्गा- दासः ॥


शब्दकल्पद्रुमः

वृह || इर् ध्वने । ऋद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सेट् ।)
इर्, अवृहत् । अवर्हीत् । ध्वनः शब्दः । ऋद्धिर्व्वृद्धिः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वृह || वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।)
वर्हति । वृहिर्ध्वनर्द्ध्योरित्यने- नैवेष्टसिद्धेऽस्य पाठो वृद्धौ इरनुबन्धवर्ज्जनार्थः । किन्तु अनेनैवेष्टसिद्धे तत्र ऋद्धि ग्रहणं परत्रा- नुवृत्त्यर्थमेव । अयं धातुः कैश्चिन्य मन्यते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वृह || श ऊ उद्यमे । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-अक०-वेट् ।)
श, वृहति । ऊ, अवर्हीत् । अवृक्षत् । इति दुर्गादासः ॥



Correction: