संस्कृत-शब्दकोशः

वृहतिका वृहतीपति

वृहती

वाचस्पत्यम्

वृहती ||‍ स्त्री वृहत् + गौरा० ङीष् । १ महत्यां स्त्रियां २ क्षुद्र- वार्त्ताक्याम् राजनि० । ३ वारिधान्यां ४ वाचि ५ कण्टिका- रिकायाम् मेदि० । ६ नवाक्षरपादके छन्दोभेदे वृ० र० । संज्ञायां कन् ह्रस्वः । उत्तरीयवस्त्रे स्त्री अमरः ।


शब्दकल्पद्रुमः

वृ(बृ)हती || स्त्री (वृहत् + गौरादित्वात् ङीष् ।)
क्षुद्रवार्त्ताकी । व्याकुड इति भाषा । तत्पर्य्यायः । महती २ क्रान्ता ३ वार्त्ताकी ४ सिंहिका ५ कुली ६ राष्ट्रिका ७ स्थूलकण्टा ८ भण्टाकी ९ महोटिका १० बहुपत्री ११ कण्टतनुः १२ कण्टालुः १३ कट्फला १४ डोरडी १५ वन- वृन्ताकी १६ । इति राजनिर्घण्टः ॥ सिंही १७ प्रसहा १८ रक्तपाकी १९ लतावृहतिका २० । इति रत्नमाला ॥ अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । वातज्वरारोचकाम- काशश्वासहृद्रोगनाशित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “वृहती पाचनी सोष्णा ग्राहिणी वात- नाशिनी ॥” इति राजवल्लभः ॥ * ॥
महती । इत्यमरः ॥ (इयन्तु नारदस्य वीणा । केचित्तु विश्वावसोर्गन्धर्व्वराजस्य वीणां बृहती- माहुः । तथा च । “विश्वावसोस्तु बृहती तुम्बुरोस्तु कलावती । महती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी ॥” इति माघटीकायां मल्लिनाथधृतवैजयन्ती । १ । १० ॥ * ॥
)
उत्तरीयवस्त्रम् । वारिधानी । वाक् ॥ कण्टकारी । इति मेदिनी ॥ (मर्म्म- स्थानविशेषः । यथा, सुश्रुते । ३ । ६ । “स्तनमूलादुभयतः पृष्ठवंशस्य बृहती नाम तत्र शोणितातिप्रवृत्तिनिवृत्तिनिमित्तैरुपद्रवै- र्म्रियते ॥”)
छन्दोभेदः । स तु नवाक्षरपादः । यथा, —
“उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपू- र्व्विका । गायत्त्र्युष्णिगनुष्टुप् च वृहती पंक्तिरेव च ॥ इत्यादि । तद्भेदानाह । वृहती नवाक्षरा यथा, भुजगशिशुसुता नौ मः । ह्रदतटनिकटक्षौणी भुजगशिशुसुता यासीत् । मुररिपुदलिते नागे व्रजजनसुखदा साभूत् ॥ युतेत्येवं शम्भुप्रभृतिषु पाठः । भृतेत्येवमाधु- निकाः पठन्ति । स्यान्मणिमध्यं चेद्भमसाः । कालियभोगा भोगगतस्तन्मणिमध्यस्फीतरुचा । चित्रपदा भो नन्दसुतश्चारु ननर्त्त स्मेरमुखः ॥ सजरैर्भुजङ्गसङ्गता । तरला तरङ्गरिङ्गितैर्यमुना भुजङ्गसङ्गता । कथमेतु वत्सचारकश्चपलः सदैव तां हरिः ॥” इति छन्दोमञ्जरी ॥



Correction: