वाचस्पत्यम्
वृहत् is an alternate of बृहत्. बृ(वृ)हत् || त्रि० बृह—अति शतृवत् कार्य्यम् । १ महति स्रियां ङीष् । सा च २ उत्तरीयभेदे नवाक्सरपदके ३ छन्दोभेदे ४ क्षुद्रवार्त्ताक्यां ५ बारिधान्यां ६ वाचि ७ कण्टकार्य्याञ्च स्त्री मेदि० । ८ विष्णौ पु० । “अणुर्बृ(वृ)हन् कृशः स्थूलः” विष्णुस० । आच्छादनपरत्वे कन् । वृहतिका उत्तरीवस्त्रे अमरः । स्वार्थे क । वृहतीशब्दे च स्त्री ।
वाचस्पत्यम्
वृहत् || त्रि० तु० वृह—अति । महति अमरः स्त्रियां गौरा० ङीष् ।
शब्दकल्पद्रुमः
वृ(बृ)हत् || त्रि (वृह वृद्धौ + “वर्त्तमाने पृषद्वृहन्मह- ज्जगच्छतृवच्च ।” उणा० २ । ८४ । इति अतिप्रत्ययेन निपातनात् साधु ।)
महत् । इत्यमरः ॥ (यथा, माघे । २ । १० । “वृहत्सहायः कार्य्यान्तं क्षोदीयानपि गच्छति । संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥”)